वांछित मन्त्र चुनें
आर्चिक को चुनें

आ꣢ जा꣣मि꣡रत्के꣢꣯ अव्यत भु꣣जे꣢꣫ न पु꣣त्र꣢ ओ꣣꣬ण्योः꣢꣯ । स꣡र꣢ज्जा꣣रो꣡ न योष꣢꣯णां व꣣रो꣢ न योनि꣢꣯मा꣣स꣡द꣢म् ॥१३८७॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

आ जामिरत्के अव्यत भुजे न पुत्र ओण्योः । सरज्जारो न योषणां वरो न योनिमासदम् ॥१३८७॥

मन्त्र उच्चारण
पद पाठ

आ꣢ । जा꣣मिः꣢ । अ꣡त्के꣢꣯ । अ꣣व्यत । भुजे꣢ । न । पु꣣त्रः꣢ । पु꣣त् । त्रः꣢ । ओ꣣ण्योः꣣꣬ । स꣡र꣢꣯त् । जा꣣रः꣢ । न । यो꣡ष꣢꣯णाम् । व꣣रः꣢ । न । यो꣡नि꣢꣯म् । आ꣣स꣡द꣢म् । आ꣣ । स꣡द꣢꣯म् ॥१३८७॥

सामवेद » - उत्तरार्चिकः » मन्त्र संख्या - 1387 | (कौथोम) 6 » 2 » 3 » 2 | (रानायाणीय) 12 » 2 » 2 » 2


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

अब उपासक कहता है।

पदार्थान्वयभाषाः -

(जामिः) हमारा बन्धु परमेश्वर, हमारे द्वारा (अत्के) अन्तरात्मा में (अव्यत) लाया जा रहा है, (न) जैसे (पुत्रः) पुत्र (ओण्योः) माता-पिता की (भुजे) भुजा में लाया जाता है। वह (सरत्) हमारी ओर आ रहा है, (जारः न) जैसे सूर्य (योषणाम्) रात्रि के प्रति (सरत्) आता है और (वरः न) जैसे वर, कन्या से विवाह करके (योनिम्) घर में (आसदम्) रहने के लिए (सरत्) आता है ॥२॥ यहाँ उपमालङ्कार है ॥२॥

भावार्थभाषाः -

पुत्र के समान, पत्नी के समान और घर के समान प्रिय परमेश्वर का प्रेम और श्रद्धा से ध्यान करके स्तोता-जन परम तृप्ति तथा आनन्द पाते हैं ॥२॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

अथोपासको ब्रूते।

पदार्थान्वयभाषाः -

जामिः अस्माकं (बन्धुभूतः) सोमः परमेश्वरः। [स नो॒ बन्धु॑र्जनि॒ता। य० ३२।१० इति स्मरणात्।] (अत्के) अन्तरात्मनि। अत सातत्यगमने। इण्भीकापाशल्यतिमर्चिभ्यः कन्। उ० ३।४३ इति कन् प्रत्ययः। ‘अततीति अत्कः वायुः आत्मा च’ इति दशपाद्युणादिवृत्तिकारः माणिक्यः। (अव्यत) आव्यत, (अस्माभिः) आनीयते। [अवतेर्गत्यर्थात् कर्मणि लङि आडागमाभावे रूपम्।] (न) यथा (पुत्रः) तनयः (ओण्योः) मातापित्रोः। [ओण्योः इति द्यावापृथिवीनामसु पठितम्। निघं० ३।३०। द्यौ॒॑३ष्पितः॒ पृथि॑वि॒ मातः॒। ऋ० ६।५१।५ इति वचनात् तयोर्मातापितृत्वम्।] (भुजे) बाहौ यथा आनीयते, स च (सरत्) अस्मान् प्रति आगच्छति, (जारः न) सूर्यो यथा (योषणाम्) रात्रिम् (सरत्) गच्छति। [इ॒षि॒रा योषा॑ युव॒तिर्दमू॑ना रात्री॑ दे॒वस्य॑ सवि॒तुर्भग॑स्य (अथ० १९।४९।१) इति वचनाद् रात्रिः सूर्यस्य योषा। आदित्योऽत्र जार उच्यते, रात्रेर्जरयिता। निरु० ३।१६। सरत् इति सृ गतौ धातोर्लेटि रूपम्।] अपि च (वरः न) वरः यथा, कन्यां विवाह्य (योनिम्) गृहम् (आसदम्) आसत्तुं (सरत्) आ गच्छति, तद्वत् ॥२॥ अत्रोपमालङ्कारः ॥२॥

भावार्थभाषाः -

पुत्रवज्जायावद् गृहवच्च प्रियं परमेश्वरं प्रेम्णा श्रद्धया च हृदि ध्यात्वा स्तोतारः परमां तृप्तिमानन्दं च लभन्ते ॥२॥